The Mysteries Above
The Mysteries Above
- There's something about the unknown that tugs at the human spirit.
- Few mysteries captivate us more than the possibility of life beyond our planet.
- Throughout history, there have been moments when the sky offered more questions than answers.
- Imagine a quiet evening in New Mexico in 1947, disrupted by an unexpected crash.
- Officials were quick to brush it off as a "weather balloon," but the whispers among the locals told a tale of otherworldly visitors.
- This Roswell incident, with its mix of secrecy and intrigue, has since become a beacon for UFO enthusiasts.
- Fast forward to 1952, when the skies over Washington D.C. weren't just busy with planes.
- For an entire week, orbs played a tantalizing game of cat and mouse, darting in and out of sight, evading the military jets that pursued them.
- The newspapers ablaze with speculations: were these lights playful aliens or just a freak atmospheric occurrence?
- Years later, in 1997, Arizona's expansive desert became the stage for an aerial ballet.
- Thousands looked up to witness a sequence of lights, moving in a formation so graceful and precise that it seemed choreographed.
- Some called them flares, but the sheer synchronicity made others wonder if we were being treated to a performance from beyond our world.
- But it wasn't just America that had its share of skyward wonders.
- Belgium, between 1989 and 1990, played host to silent, triangular crafts.
- Night after night, they glided overhead, defying he fighter jets that tried to keep pace, leaving behind only a trail of awe and countless questions.
- These moments, scattered across history, force us to wonder:
- as we gaze up at the vast expanse above, might someone, or something, be gazing back, waiting for the right moment to say hello?
उपरितनानि रहांसि
- अविदितस्य विषये किञ्चित् अस्ति यत् मानवात्मानम् अभिस्पृशति।
- मही-ग्रहात् परं जीवस्य सम्भावनायाः अधिकम् आकर्षणम् कानिचन रहांसि एव कुर्वन्ति।
- विश्वचरित्रे प्रसङ्गाःअवर्तन्त यदा नभः समाधानेभ्यः अधिकानि प्रश्नानि अददुः।
- सप्त-चत्वारिंशदुत्तर-नवदश-तमे वर्षे नव-मेक्सिको-राज्ये एकस्याः शमायाः सन्ध्यायाः कल्पना क्रियतां यदा अनपेक्षितेन अवपातेन शान्ति-भङ्गः सञ्जातः।
- अधिकारिणः सत्वरं "सः वातावरण-वागोलः" इति प्रतिपादितवन्तः किन्तु स्थनीयानां मध्ये मन्दध्वनि-जल्पनं परलोकतः अतिथीनां कथां श्रावयति स्म।
- तदनन्तरं रहसः गूढतायाः च मिश्रणेन युक्ता इयं रोस्वेल्-घटना अपरिचित-डयमान-वस्तु-अनुरागिभ्यः उन्नतदीप-रूपेण परिवर्तिता।
- अधुना द्विपञ्चाशदुत्तर-नवदश-तम-वर्षीया घटना विषदीक्रियतां यदा वाषिङ्ग्टन्-नगरस्य उपरि नभसि केवलं विमानानि न उदडयन्त।
- एकं पूर्णं सप्ताहं यावत् दीपाः पुनः पुनः प्रत्यक्षीभूय पुनः पुनः तिरोभूय अनुस्रियमाणानि सैन्य-क्षिपप्रणोदन-विमानानि वर्जयित्वा रोमहर्षितां बिडाल-मूष-क्रीडां क्रीडितवन्तः।
- वार्ता-पत्राणि ऊहाभिः परिपूर्णानि आसन् - किं इमे दीपाः विलासि-परग्रहवासिनः उत वा केवलं विरला आन्तरिक्ष-घटना?
- बहुवर्षेभ्यः परं सप्त-नवत्युत्तर-नवदश-तमे वर्षे आरिज़ोनायाः विशाल-मरुस्थलं रङ्गमञ्च-रूपेण परिवर्तितम् कस्मैचन आकाशीय-नृत्य-प्रदर्शनाय।
- सहस्रशः जनाः उपरि व्यूहे गच्छन्तं दीपानुक्रमं दृष्टवन्तः। गमनम् इयत् ललितं निपुणं च आसीत् यत् सुकल्पितम् इति प्रतिभाति स्म।
- कैश्चन तु साङ्केतिक-प्रकाशाः इति उच्यते स्म किन्तु अद्भुत-युगपत्-चालनं दृष्ट्वा अन्यैः चिन्तितं यत् परग्रह-कलाकाराणां प्रदर्शनमिदम् स्यात्।
- किन्तु केवलम् अमेरिकायाम् न दृष्टानि ईदृशानि नभःस्थानि अद्भुत-दृश्यानि।
- बेल्जिय-देशे अपि नीरव-त्रिभुज-विमानानि दृष्टानि ऊननवत्युत्तर-ऊनविंशति-तम-वर्षस्य नवत्युत्तर-ऊनविंशति-तम-वर्षस्य मध्ये।
- प्रतिनक्तं तानि उपरि उड्डयन्ते स्म, अनुसरणं प्रयतमानानि युद्ध-विमानानि अवर्जयन् एवं च सम्भ्रमम्, असङ्ख्यशः प्रश्नानि च असृजन्।
- चरित्रे वियतानि ईदृशानि क्षणानि अस्मान् चिन्तयितुं विवशीकुर्वन्ति -
- यदा उपरितन-विशाल-विस्तृतिं पश्यामः वयं तदैव किं कोऽपि उत वा किमपि अस्मान् दृष्ट्वा "स्वागतमिति" वदितुं युक्त-समयं प्रतीक्षते?
Comments
Post a Comment