Surfing in Queensland
Surfing in Queensland
- "Are you ready for the adventure of a lifetime?" asked Alia.
- "I don't know!" joked Adriana.
- "Aren't these beaches for professional surfers?"
- Well, the world's best surfers love the Gold Coast, but you can find surf spots for beginners.
- "Why is the Gold Coast so popular?" asked Adriana.
- "It has some of the best point breaks and waves for all skill levels!" Alia explained.
- The golden sand of Rainbow Bay contrasted with the deep blue ocean.
- Some surfers were riding waves while others learned how to paddle on the water's edge.
- "You need to learn to catch a wave," Alia said.
- "Do you know how to stand up on the board?"
- "I have practiced on the ground," replied Adriana.
- "Time to hit the water then!" exclaimed Alia.
- Alia and Adriana headed into the water.
- "Do you have any advice?" asked Adriana.
- "Watch the patterns of the waves, feel their rhythm.
- First, I'll hold the back of your board, and then you can try it on your own."
- Adriana felt the force of the waves behind her.
- She tried to match the wave's speed, but she could not.
- She tried to match the wave's speed, but she could not.
- "You almost got it!" said Alia.
- "You only need to move more quickly and keep your weight centered."
- Adriana began to paddle.
- When felt she had caught a wave, she got her knees on the board and stood up.
- "That was amazing!" exclaimed Alia.
- "It was!", said Adriana with excitement.
- "l want to do it again!"
- "That's the spirit!" gushed Alia.
- "You will leave Queensland surfing like a pro!"
क्वीन्स्लाण्ड्-राज्ये तरङ्गारोहः
- "जीवनस्य उत्कृष्टं साहस-कार्यं कर्तुं त्वं सिद्धा वा?" इति आलिया पृष्टवती।
- "न जाने!" इति आद्रियाना विनोदेन उक्तवती।
- "तटानि इमानि व्यवसायि-तरङ्गारोहिभ्यः किल?"
- आम् विश्वस्य सर्वोत्तमेभ्यः तरङ्गारोहिभ्यः सुवर्ण-तटं रोचते किन्तु प्रथमस्तरीयानि स्थलानि अपि लभ्यन्ते।
- "किमर्थं सुवर्ण-तटम् इयत् लोकप्रियम्?" इति आद्रियाना पृष्टवती।
- प्रत्येक-स्तरेभ्यः उत्तमाः अनुपर्वतीय-क्षेत्राणि तरङ्गाः च विद्यन्ते तत्र इति आलिया प्रतिपादितवान्।
- इन्द्रधनुरुपसागरस्य सुवर्ण-सिकता समुद्रस्य गाढ-नील-वर्णात् विपरीतः आसीत्।
- केचन तरङ्गारोहिणः तरङ्गारोहं कुर्वन्ति एवं च केचन अन्ये जल-सीम्नि हस्त-चालनं ज्ञातुम् अभ्यासरताः सन्ति।
- प्रथमं तरङ्ग-ग्रहणस्य ज्ञानं आवश्यकम् इति आलिया अवदत्।
- "फलके स्थातुं जानासि वा?"
- भुवि अभ्यासः कृतः मया इति आद्रियाना प्रत्युक्तवती।
- अथ समुद्रे प्रवेशस्य समयः आसन्नः इति आलिया उद्घोषितवती।
- आलिया आद्रियाना च समुद्रं प्रति प्रस्थानं कृतवत्यौ।
- तव कोऽपि निर्देशः इति आद्रियाना पृष्टवती।
- तरङ्गाणां प्रतिमानम् अवलोक्य तेषां लयम् अनुभव।
- प्रथमं फलकस्य पृष्ठं गृह्णामि, अनन्तरं स्वयमेव विना साहाय्यं प्रयत्नं कुरु।
- तस्याः पृष्ठतः आद्रियाना तरङ्गाणां शक्तिम् अनुभूतवती।
- तरङ्गस्य वेगस्य अनुसरणार्थं प्रयतते स्म सा किन्तु न शक्तवती।
- "प्रायः साधयसि" आलिया अवदत्।
- "इतोऽपि सत्वरं चल, स्व-भारं मध्ये एव स्थापय"।
- आद्रियाना हस्त-चालनम् आरब्धवती।
- तरङ्ग-ग्रहणस्य अनुभवे जानुनी फलके स्थापयित्वा उत्तिष्ठवती।
- बहु-समीचिनम् इति आलिया उद्घोषितवती।
- सत्यमेव इति आद्रियाना उल्लासेन उक्तवती।
- "पुनरेकवारं चिकीर्षामि।"
- उत्तम-भावना एव इति आलिया उत्साहेन उक्तवती।
- "व्यवसायि-सादृश्यं तरङ्गारोहं कृत्वा हि त्वं क्वीन्स्लाण्डात् निर्गमिष्यति!"।
Small correction. Point 6: इति आलिया प्रतिपादितवती
ReplyDeleteOne more small correction: Pt 18 & 19 are same (in eng side).
ReplyDeleteVery aptly translated. Super useful for learners like me. Thank you :)
ReplyDelete