A Blackout in the Building
A Blackout in the Building
- One evening Tom was in his apartment.
- He was cooking dinner.
- Suddenly, the lights went out.
- It was very dark.
- Tom said, "Oh no! A blackout!
- Tom took out a flashlight.
- He turned it on.
- The flashlight helped him.
- He walked to his neighbor's door.
- Her name was Jane.
- Tom knocked on Jane's door.
- "Jane, do you have a blackout too?
- Jane opened the door.
- "Yes, Tom. My lights are off too. What can we do?"
- Tom said, "Let's go downstairs. We can talk to the building manager."
- They walked down the stairs.
- It was dark, but they had flashlights.
- They found the building manager, Mr. Brown.
- "Mr. Brown, there is a blackout in the building!", Jane said.
- Mr. Brown said, "I know. I called the power company. They said they will fix it soon."
- Tom asked, "What can we do while we wait?"
- Mr. Brown said, "You can use candles for light. Be careful!"
- Tom and Jane returned to their apartment.
- They lit candles.
- The candles made their rooms brighter.
- Later, the lights came back on.
- Tom and Jane were happy.
- They said, "Thank you, Mr. Brown!"
- Mr. Brown said, "You're welcome! I'm glad everything is okay now."
- As Tom and Jane walked back to their apartments, they saw their candles had melted into funny shapes.
- Tom's candle looked like a cat, and Jane's candle looked like a dog. They laughed together.
- Tom said, "Well, at least we got some new pets from this blackout!"
- Jane laughed, "Yes, and they don't need food or walks!"
सदने विद्युच्छेदः
- कदाचित् सायं टोमुर् आवासे सदनिकायाम् आसीत्।
- स रात्रि-भोजनस्य पाकं कुर्वन्न् अस्ति।
- अकस्माद् एव दीपा निर्वापिताः।
- बहु अन्धकारः आसीत्।
- "हा हन्त! विद्युच्छेदः" इति टोमुर् अवदत्।
- टोमुः करदीपं गृहीतवान्।
- तं ज्वालयति स्म।
- कर-दीपः द्रष्टुं तस्य साहाय्यम् अकरोत्।
- प्रतिवेशिन्या द्वारं प्रति गतवान्।
- "जेनुः" तस्या नाम आसीत्।
- द्वारं टोमुस् ताडितवान्।
- जेनो! तव गृहे अपि विद्युच्छेदो जातो वा?
- जेनुर् द्वारम् उद्घाटितवती।
- "आम्! टोमो! मम दीपा अपि निर्वापिता जाताः। किं कर्तुं शक्नुवः?"
- "अधो गत्वा सदनपेन सह सम्भाषणं शक्यते" इति टोमुर् अवदत्।
- सोपानानाम् अधः अचलताम्।
- अन्धकारः अस्ति किन्तु तयोः पार्श्वे कर-दीपौ स्तः।
- तौ सदनपं ब्रौन्-महोदयं दृष्टवान्।
- "ब्रौन्-महोदय, सदने विद्युच्छेदो जातः" इति जेनुर अवदत्।
- "जानामि। विद्युत्-संस्थां दूरवाणीम् अकरवम्। ते अवदन् यत् शीघ्रम् एव समीकरिष्यन्ति।" इति बरौन्-महोदयः अवदत्।
- "प्रतीक्षा-काले किं कर्तुं शक्यते" इति टोमुर् अपृच्छत्।
- "ज्योतिषे सिक्थवर्तिका-प्रयोगः करणीयः। सावधानता भवेत्।" इति ब्रौन्-महोदयेन उक्तम्।
- टोमुर् जेनुश् च स्व-स्व-सदनिकां प्रत्यागतवन्तौ।
- ताभ्यां सिक्थवर्तिके ज्वलिते।
- सिक्थवर्तिकाभ्यां तयोः कक्षाः प्रकाशेन आसन्।
- अनन्तरं विद्युद्-दीपाः पुनर्ज्वालिताः।
- टोमुर् जनेश् च आनन्देन आस्ताम्।
- "धन्यवादः! ब्रौन्-महोदय!" इति तौ अवदताम्।
- "मम सौभाग्यम् एतत्। सर्वं कुशलमस्ति इति सन्तुष्टः अहम्।" इति ब्रौन्-महोदयेन उक्तम्।
- टोमुर् जेनुश् च स्व-स्व-सदनिकां प्रत्यागत्य दृष्टवन्तौ यत् तयोः सिक्थवर्तिके द्रवीभूय विलक्षण-आकृतीर् अकुर्वन्।
- टोमोः सिक्थवर्तिका द्रवीभूय मार्जारीवद् एवं च जेनोः सिक्थवर्तिका द्रवीभूय कुक्कुरवद् दृश्यते स्म। युगपद् अहसताम्।
- "अस्तु! न्यूनातिन्यूनं नूतन-गृह-पशू लभ्येते विद्युच्छेद-कारणात्" इति टोमुर् अवदत्।
- "आम्! ताभ्यां भोजनं वा चालनं वा अनावश्यकम्" इति हसन्ती उक्तवती जेनुः।
18. तौ सदनपं ब्रौन्-महोदयं दृष्टवन्तौ।
ReplyDelete