A Board Game Night

A Board Game Night

  1. Jerry, Mike, and Zoey were in the mood for a fun board game night.
  2. They decided to play monopoly.
  3. "I just landed on Park Place.
  4. I think it is time to buy it," said Jerry after a while.
  5. "You are so lucky!" said Mike.
  6. "I don't have enough money."
  7. "Same here," laughed Zoey.
  8. "I just landed on Luxury Tax and had to pay even more."
  9. "It's all part of the game.
  10. You have to take risks to win," said Jerry.
  11. "Yeah, but sometimes those risks don't pay off," replied Mike.
  12. "Exactly, but that's why it's important to have a good strategy and not just buy properties blindly," said Zoey looking directly at Mike.
  13. "I think I have had enough of Monopoly for one night," said Mike.
  14. "How about we switch to something else?"
  15. "Yeah, I agree.
  16. I want to play Chess," replied Zoey.
  17. "I will be a spectator," said Jerry.
  18. Mike and Zoey spent the next hour playing chess, each trying to outsmart each other.
  19. Mike's king was under threat from Zoey's queen and rook, but he was able to find a way to save it and even launch a counterattack.
  20. Zoey's face lit up as as she realized she had the winning combination on the board.
  21. She leaned forward in excitement and cried out, "Checkmate!"
  22. "Oh, no!" cried Mike.
  23. "I am terrible at Monopoly, and I am no good at chess either.
  24. Congratulations, Zoey," he said.
  25. "What is your plan now, Mike?" asked Jerry.
  26. "Let us play poker.
  27. Maybe my luck is better than my strategy skills," laughed Mike

फलक-क्रीडा-नक्तम्

  1. जरेः, माय्कोः ज़ोव्याः च मनोदशा रोचक-फलक-क्रीडा-नक्ताय सम्यक् आसीत्।
  2. ते मोनोपोलीं क्रीडितुं निर्णयम् अकुर्वन्।
  3. इदानीमेव उद्यान-स्थले अवतरितवान् अहम्,
  4. तत्स्थलं क्रीतुं समयः आसन्नः इति किञ्चित् कालानन्तरं जरिः उक्तवान्।
  5. "अहो सौभाग्यम्!" इति माय्कुः उक्तवान्।
  6. "मम पार्श्वे धनं पर्याप्तं नास्ति।"
  7. "मम पार्श्वे अपि न इति" इति ज़ोवी हसन् उक्तवती।
  8. "विलासिता-कर-स्थले अवतारितवती अहम् अतः इतोऽपि धनं व्ययीकृतवती।"
  9. "इदं सर्वं क्रीडायाः भागमेव।
  10. "विजय-प्राप्त्यर्थं संशय-स्वीकरणम् आवश्यकम्" इति जरिः उक्तवान्।
  11. आम् किन्तु कदाचित् संशय-स्वीकरणस्य लाभः न भवति इति माय्कुः प्रत्युत्तरितवान्।
  12. "सत्यमेव किन्तु तदर्थमेव उचित-नीतिः उपयोक्तव्या एवं च सहेलं सम्पत्ति-समार्जनं वर्जयेत्" इति ज़ोवी मय्कुं प्रत्यक्षतः पश्यन्ती उक्तवती।
  13. एकस्मै नक्ताय मोनोपोली-क्रीडया अलम् इति मन्ये इति मय्कुः उक्तवान्।
  14. "अन्या क्रीडा क्रीडाम?"
  15. "आम्, अङ्गीकरोमि।
  16. चतुरङ्गं क्रीडितुम् इच्छामि इति प्रत्युत्तरे ज़ोवी उक्तवती।
  17. "दर्शकः भवामि," इति जरिः उक्तवान्।
  18. मय्कुः ज़ोवी च अग्रिमे होराम् एकां चतुरङ्गं क्रीडितवन्तौ परस्परं युक्तिना पराजेतुं यतमानौ आस्तां च।
  19. मय्कोः राजा ज़ोव्याः मन्त्रिणः सैनिकस्य च द्वारा अपाये आसीत् किन्तु सः यत्किमपि कृत्वा राजानं रक्षयित्वा प्रतिकृतिम् अपि कृतवान्।
  20. ज़ोव्याः मुखे प्रसन्नता दृष्टा यदा सा अवगतवती यत् तस्याः पुरतः फलके विजय-युक्तिः प्रत्यक्षीभूता।
  21. सा स्वकीयं शिरः किञ्चित् अग्रे कृत्वा "राजा निस्सहायः" इति घोषयति स्म।
  22. "हा हन्त!" इति माय्कुः रुदितवान्।
  23. "मोनोपोली-क्रीडायां अक्षमः अहं चातुरङ्गे अपि।
  24. शुभाकाङ्क्षाः, ज़ोवि," इति उक्तवान्।
  25. "अधुना किं करोषि?" जरिः पृष्टवान्।
  26. "पोकर्-क्रीडां क्रीडाम।
  27. मम भाग्यं मम युक्ति-क्षमतायाः तुलनया सम्यक् स्यात्," हसन् उक्तवान् मय्कुः।

Comments

Popular posts from this blog

The Mysteries Above

Surfing in Queensland

Three Japanese Holidays: Part 3