Anastasia: The Mysterious Duchess of Russia
Anastasia: The Mysterious Duchess of Russia
- Few mysteries captured as much attention throughout the 20th century as the one surrounding Anastasia Romanov.
- Anastasia Nikolaevna was the fourth and youngest daughter of Tsar Nicholas II - the last Emperor of Russia - and his wife, Tsarina Alexandra Feodorovna.
- Her parents were disappointed that she was a girl as they expected a male heir to the throne.
- Anastasia's vivacity and energy charmed everyone around her.
- However, the duchess suffered from buinions, weak back muscles and hemophilia.
- At the outbreak of the Russian Revolution in February 1917, Anastasia and her family were placed under house arrest.
- Her father, Nicholas II, abdicated the throne shortly thereafter.
- When the Bolsheviks seized control of most of Russia, the Romanov family was moved to the Ipatiev House at Yekatrinburg.
- Although afraid, Anastasia and her sisters were in good spirits for a few months.
- But by the summer of 1918, loneliness and uncertainty had taken their toll on Anastasia.
- Revolutionary Bolsheviks executed the family in July 1918.
- Initially, the Bolsheviks only publicized the death of Nicholas II, which fueled speculation about the family's fate.
- For many years, it was rumoured that Anastasia had survived.
- More than 10 women claimed to be Grand Ducchess Anastasia.
- The most famous was Anna Anderson, who held a legal battle for over 30 years to be recognised as a Romanov.
- Anderson's story was debunked thanks to DNA tests conducted in the 1990s.
- However, Anastasia has long stirred the imaginations of filmmakers, novelists, and playwrights.
आनस्टासिया - रष्याया रहस्यमयी डचाः
- विंशति-शतके न्यूनानि रहांसि तावद् ध्यानम् न आकर्षयन्ति स्म यावद् ध्यानम् आनस्टासिया-रोमानोवाम् आलक्ष्य रहस्यम् आकर्षयत्।
- रष्याया अन्तिम-चक्रवर्तिनः सम्राजः निकोलस-द्वितीयस्य, तस्य पत्न्याः सम्राज्ञ्या अलेक्साण्ड्रा-फ़ियोदोरोव्न्याश् च कनिष्ठा चतुर्थी पुत्री आनस्टासिया-निकोलायेव्ना आसीत्।
- बालाया जन्मे सति तस्या मातापितरौ निराशौ जातौ यद्धि सिंहासने पुरुष-उत्तराधिकारिण उपवेशनम् अपेक्षितम्।
- आनस्टाषीयायाः प्रफुल्लता उत्साहश् च स्वं परितः जनेभ्यो रोचेते स्म।
- किन्तु डचसं बाधन्ते पादाङ्गुलवैरूप्यं, पृष्ठ-पेशी-दौर्बल्यम् अधिरक्तस्त्रावश् च।
- सप्त-दशाधिक-ऊनविंशे तमे वर्षे रष्या-क्रान्तेः उद्घट्टने आनस्टासियायाः सपरिवारं गृह-बन्धनं जातम्।
- किञ्चित् कालानन्तरं तस्याः जनको निकोलस-द्वितीयः सिंहासनं त्यक्तवान्।
- यदा बोल्षेविका रष्याया अधिकांश-भागं वशीकृत्य रोमानोव-परिवारस्य येकाट्रिन्बर्ग-नगरे-स्थिते इपाचीव-भवने स्थानान्तरणं कृतवन्तः।
- भये सत्यपि आनस्टासिया एवं च तस्याः स्वसारः कतिपयान् मासान् यावत् उच्च-मनोबलेन आसन्।
- किन्तु अष्टदशोत्तर-ऊनविंशस्य ग्रीष्मकाल-पर्यन्तम् एकाकिता आशङ्का च आनस्टासियायाः हानिम् अकुरुताम्।
- क्रान्तिकारिणो बोल्षेविकास् तत्कुटुम्बम् अष्ट-दशोत्तर-नवदश-तमे वर्षे जुलै-मासे हतवन्तः।
- आदौ बोल्षेविकाः निकोलस-द्वितीयस्य मरणम् प्रकाशितवन्तः, येन कुटुम्बस्य भाग्यम् उद्धृत्य परिकल्पनाः उत्थापिताः।
- बहूनि वर्षाणि यावद् आनस्टासिया अतिजीविता इति किंवदन्ती प्रसृता।
- महाडचाः आनस्टासिया अस्मि इति दशभ्यः अधिकाः स्त्रियः कथितवत्यः।
- आसु स्त्रीषु विश्रुततमा आण्डर्सन्-आना रोमानोव-कुटुम्बस्य सदस्यत्वेन अभिज्ञानार्थं वैध-सङ्घर्षं कृतवती।
- आण्डर्सन्-आनायाः कथनम् नवत्युत्तर-नवदश-तमे दशके विहिताभिः आनुवंशिक-परीक्षाभिः असत्यं सिद्धं जातम्।
- किन्तु आनास्टासिया चिरकालाच् चलच्चित्रकाराणाम्, उपन्यासकाराणां नाटक-रचयितॄणां च परिकल्पनाः प्रोत्साहितवती।
Comments
Post a Comment