Dinosaurs
Dinosaurs
- Dinosaur means terrible lizard. Dinosaurs are a varied group of archosaur reptiles.
- They were the dominant land animals of the Mesozoic Era. Over 500 different classifications of dinosaurs are known
- Dinosaur fossils have been found on all continents. Even now, new discoveries are made frequently.
- Dinosaurs appeared in the Upper Triassic period about 230 million years ago.
- By the Early Jurassic, they were the top land vertebrates.
- They dominated most environments on land.
- It lasted until the sudden "Cretaceous-Tertiary" extinction event 66 million years ago.
- From the fossil record, we know that birds are dinosaurs with feathers.
- They evolved from early theropods during the Late Jurassic.
- Dinosaurs made adaptations that made them successful. The first dinosaurs were small predators.
- They walked on two legs. All their descendants had an upright posture.
- Most of the smaller dinosaurs had feathers. They were also probably warm-blooded.
- This would make them active with a higher metabolism than modern reptiles.
- Social interaction and cooperation seem very common for some types.
- The first fossils were recognised as dinosaurs in the early 19th century.
- Some of their bones were discovered long ago, but not understood.
- Dinosaurs are now major attractions in museums around the world.
- They have become a part of popular culture. There have been many best-selling books and movies. New discoveries are reported in the media.
- Despite their great success over the years, there were lifestyles the dinosaurs never evolved.
- None ever evolved to live entirely in water, as many mammals do.
- Some were semi-aquatic. They never dominated the small terrestrial niche
- The smallest vertebrates throughout the Mesozoic Era were mammals and lizards.
- The largest dinosaurs were plant-eating herbivores such as Apatosaurus and Brachiosaurus.
- They were the largest animals to ever walk on dry land.
- Other plant-eaters such as Iguanodon had special weapons, to help them fight off the meat-eaters.
- Triceratops had three horns on its head shield. The Ankylosaurus was covered in bony plates.
- The stegosaurus had spikes on its tail. The carnivores were bipedal (walking on their back legs). Their body was more horizontal.
- They balanced at the back by their tail. Some were very large.
- The tyrannosaurus and spinosaurus were big. Some were small, like the Compsognathus.
- It was the smaller sized meat-eaters that may have evolved into birds. The first fossil bird, Archaeopteryx, had a skeleton which looked much like that of a dinosaur.
- The extinctions at the end of the late Cretaceous were caused by one or more catastrophic events. Such as massive asteroid or meteorite impacts.
- The Chicxulub impact was one of them. Several impact craters and massive volcanic activity
- Such as that in the Deccan Traps in India. They have been dated to the approximate time of the extinction event.
- These geological events may have reduced sunlight and hindered photosynthesis, leading to a massive disruption in the Earth’s ecology.
भीमसरटाः
- भीमसरट इत्यस्य नाम्नः अर्थः अस्ति भीमः उत वा भयङ्करः सरटः। भीमसरटाः राजसरट-सरीसृपस्य विभिन्न-समूहः सन्ति।
- ते मध्यजीवि-महाकल्पे प्रभूताः भूमि-जन्तवः आसन्।
भीमसरटानां पञ्चशततः अधिकाः वर्गाः ज्ञायन्ते।
- भीमसरटानां जीवाश्माः सर्वेषु महाद्वीपेषु अन्विष्टाः। इदनीमपि नूतन-शोधाः वारंवारम् अन्विष्यन्ते।
- प्रायः त्रयोविंशत्कोटि-वर्षेभ्यः पूर्वे आरम्भिक-त्रयीकल्पे भीमसरटाः उत्पन्नाः।
- आरम्भिके विपिनतुङ्गीयकल्पे (जूरापर्वतीयकल्पे) ते
प्रमुख-भू-कशेरुकाः आसन्।
- ते भू-परिसरस्य अधीकांशे भागे प्रबलाः सन्ति स्म।
- षष्ठ्युत्तरषट्शतलक्षाद् वर्षेभ्यः पूर्वे खटीयुग-तृतीयके काले आकस्मिकविलुप्तेः पर्यन्तम् अन्ववर्तत।
- जीवाश्ममुद्रैः ज्ञायते यत् पक्षिणः पर्णयुक्ताः भीमसरटाः सन्ति।
- ते आरम्भिकेभ्यः उग्रपादेभ्यः विकसितवन्तः उत्तरवि
पिनतुङ्गीयकल्पे।
- भीमसरटाः सफलतादायकानि परिवर्तनानि स्व्यकुर्वन्।
प्रथमज्ञाताः भीमसरटाः लघुकायाः परभक्षकाः आसन्।
- ते द्वाभ्यां पादाभ्यां चलन्तः आसन्। तेषां सर्वेषां वंशजानाम् ऊर्ध्व-देह-स्थितिः आसीत्।
- लघुकायेषु भीमसरटेषु अधिकांशानां पक्षाः आसन्। प्रायेण ते उष्णरक्तप्राणिनः अपि आसन्।
- तदर्थं ते क्रियाशीलाः क्रियन्ते तथा च तेषां चयापचयम् आधुनिक-सरीसृपस्य तुलनया अपि अधिकम्।
- सामाजिकी परस्परक्रिया सहकारिता च केषाञ्चन विभेदानां कृते साधारणा इति प्रतीयते।
- नवदशम-शताब्द्याः आरम्भिक-काले प्रथमाः जीवाश्माः भीमसरटानामेव इति अभिज्ञातम्।
- तेषां कानिचन अस्थीनि ततः पूर्वम् अन्विष्टानि किन्तु न अवगतानि।
- इदानीन्तु आविश्वस्य सङ्ग्रहालयेषु प्रमुखाकर्षकेन्द्राणि सन्ति भीमसरटाः।
- चलित-संस्कृतेः भागः अभवन् ते। बहुविक्रीतानि पुस्तकानि चलचित्राणि च बहूनि आसन्। नूतनशोधाः वार्तामाध्यमेषु प्रस्तुताः।
- दीर्घकालं यावत् गतवत्यां महत्सफलतायां सत्यामपि
कानिचन जीवनविधानानि विकसितुम् अक्षमाः आसन् भीमसरटाः।
- स्थानपायिप्राणीषु बहूभिः सादृश्येन पूर्णतया जलमग्नं जीवितुं कोऽपि भीमसरटः कदापि न विकसितः।
- केचन तु अर्धजलचराः। ते अल्पपार्थिव-वसतौ अपि प्रभुतत्वं न स्थापितवन्तः।
- कृत्स्ने मध्यजीवि-परिकल्पे अधिकांशाः लघुकायाः कशेरुकाः तु स्थानपायिप्राणनः सरटाश्च आसन्।
- विशालतमाः भीमसरटाः सन्ति शाकाहारिनः यथा कपटसरटः बाहुसरटश्च।
- ते शुष्कभुवि चरितवतां मृगेषु विशालतमाः आसन्।
- इवानादन्त इत्यादिनाम् अन्येषां शाकाहारिणां विशेषायुधानि सन्ति यानि आयुधानि मांसाहारिणः प्रतिसारयितुम् उपयोगीनि आसन्।
- त्रिशृङ्गशिरसः शिरस्त्राणे शृङ्गानि त्रीणि। कुम्भहस्तसरटस्य अस्थिशरावैः आछादितः।
- छादसरटस्य पुच्छे शूलाः सन्ति। मांसाहारिणः द्विपादाः (पश्चपादाभ्यां चरणम्)। तिरश्चीनानि तेषां शरीराणि।
- पृष्ठे पुच्छानामुपयोगेन सन्तोलः। केचन तु विशालाः।
- उपद्रविसरटः वृषसरटः च बृहत्कायौ। केचन तु लघुकायाः यथा ललितहनुः।
- लघुकायेषु मांसाहारिषु पक्षिषु प्रायः विकसिताः।
जीवाश्मेषु लब्धस्य प्रथमस्य पक्षिणः आद्यपक्षस्य अस्थिपञ्जरः भीमसराटस्य अस्थिपञ्जरेण सदृशः दृश्यते।
- उत्तरखटीयुगे नैकाभिः उत्पातिकाभिः घटनाभिः विलुप्तिः जाता। यथा लघुग्रहाणां वा उल्कानां वा उपघाताभिः।
- चिकशुलूब-अभिहतिः तासु घटनासु एका। नैकाः उत्पातिकाः एवं च विशाला ज्वालामुखी-गतिविधिः।
- यथा दक्षिणापठोद्भेदने अन्विष्टाः। तासां निर्माण
समयः विलुप्तेः समयेन प्रायः समानः।
- आभिः भूगर्भीयाभिः घटनाभिः सूर्यप्रकाशः न्यूनीकृतः स्यात् येन प्रकाश-संश्लेषण-निवारणं जायते। अस्मात् निवारणात् भूपारिस्थितिक-सङ्क्षोभः अभवत् स्यात्।
- भीमसरट इत्यस्य नाम्नः अर्थः अस्ति भीमः उत वा भयङ्करः सरटः। भीमसरटाः राजसरट-सरीसृपस्य विभिन्न-समूहः सन्ति।
- ते मध्यजीवि-महाकल्पे प्रभूताः भूमि-जन्तवः आसन्। भीमसरटानां पञ्चशततः अधिकाः वर्गाः ज्ञायन्ते।
- भीमसरटानां जीवाश्माः सर्वेषु महाद्वीपेषु अन्विष्टाः। इदनीमपि नूतन-शोधाः वारंवारम् अन्विष्यन्ते।
- प्रायः त्रयोविंशत्कोटि-वर्षेभ्यः पूर्वे आरम्भिक-त्रयीकल्पे भीमसरटाः उत्पन्नाः।
- आरम्भिके विपिनतुङ्गीयकल्पे (जूरापर्वतीयकल्पे) ते प्रमुख-भू-कशेरुकाः आसन्।
- ते भू-परिसरस्य अधीकांशे भागे प्रबलाः सन्ति स्म।
- षष्ठ्युत्तरषट्शतलक्षाद् वर्षेभ्यः पूर्वे खटीयुग-तृतीयके काले आकस्मिकविलुप्तेः पर्यन्तम् अन्ववर्तत।
- जीवाश्ममुद्रैः ज्ञायते यत् पक्षिणः पर्णयुक्ताः भीमसरटाः सन्ति।
- ते आरम्भिकेभ्यः उग्रपादेभ्यः विकसितवन्तः उत्तरवि पिनतुङ्गीयकल्पे।
- भीमसरटाः सफलतादायकानि परिवर्तनानि स्व्यकुर्वन्। प्रथमज्ञाताः भीमसरटाः लघुकायाः परभक्षकाः आसन्।
- ते द्वाभ्यां पादाभ्यां चलन्तः आसन्। तेषां सर्वेषां वंशजानाम् ऊर्ध्व-देह-स्थितिः आसीत्।
- लघुकायेषु भीमसरटेषु अधिकांशानां पक्षाः आसन्। प्रायेण ते उष्णरक्तप्राणिनः अपि आसन्।
- तदर्थं ते क्रियाशीलाः क्रियन्ते तथा च तेषां चयापचयम् आधुनिक-सरीसृपस्य तुलनया अपि अधिकम्।
- सामाजिकी परस्परक्रिया सहकारिता च केषाञ्चन विभेदानां कृते साधारणा इति प्रतीयते।
- नवदशम-शताब्द्याः आरम्भिक-काले प्रथमाः जीवाश्माः भीमसरटानामेव इति अभिज्ञातम्।
- तेषां कानिचन अस्थीनि ततः पूर्वम् अन्विष्टानि किन्तु न अवगतानि।
- इदानीन्तु आविश्वस्य सङ्ग्रहालयेषु प्रमुखाकर्षकेन्द्राणि सन्ति भीमसरटाः।
- चलित-संस्कृतेः भागः अभवन् ते। बहुविक्रीतानि पुस्तकानि चलचित्राणि च बहूनि आसन्। नूतनशोधाः वार्तामाध्यमेषु प्रस्तुताः।
- दीर्घकालं यावत् गतवत्यां महत्सफलतायां सत्यामपि कानिचन जीवनविधानानि विकसितुम् अक्षमाः आसन् भीमसरटाः।
- स्थानपायिप्राणीषु बहूभिः सादृश्येन पूर्णतया जलमग्नं जीवितुं कोऽपि भीमसरटः कदापि न विकसितः।
- केचन तु अर्धजलचराः। ते अल्पपार्थिव-वसतौ अपि प्रभुतत्वं न स्थापितवन्तः।
- कृत्स्ने मध्यजीवि-परिकल्पे अधिकांशाः लघुकायाः कशेरुकाः तु स्थानपायिप्राणनः सरटाश्च आसन्।
- विशालतमाः भीमसरटाः सन्ति शाकाहारिनः यथा कपटसरटः बाहुसरटश्च।
- ते शुष्कभुवि चरितवतां मृगेषु विशालतमाः आसन्।
- इवानादन्त इत्यादिनाम् अन्येषां शाकाहारिणां विशेषायुधानि सन्ति यानि आयुधानि मांसाहारिणः प्रतिसारयितुम् उपयोगीनि आसन्।
- त्रिशृङ्गशिरसः शिरस्त्राणे शृङ्गानि त्रीणि। कुम्भहस्तसरटस्य अस्थिशरावैः आछादितः।
- छादसरटस्य पुच्छे शूलाः सन्ति। मांसाहारिणः द्विपादाः (पश्चपादाभ्यां चरणम्)। तिरश्चीनानि तेषां शरीराणि।
- पृष्ठे पुच्छानामुपयोगेन सन्तोलः। केचन तु विशालाः।
- उपद्रविसरटः वृषसरटः च बृहत्कायौ। केचन तु लघुकायाः यथा ललितहनुः।
- लघुकायेषु मांसाहारिषु पक्षिषु प्रायः विकसिताः। जीवाश्मेषु लब्धस्य प्रथमस्य पक्षिणः आद्यपक्षस्य अस्थिपञ्जरः भीमसराटस्य अस्थिपञ्जरेण सदृशः दृश्यते।
- उत्तरखटीयुगे नैकाभिः उत्पातिकाभिः घटनाभिः विलुप्तिः जाता। यथा लघुग्रहाणां वा उल्कानां वा उपघाताभिः।
- चिकशुलूब-अभिहतिः तासु घटनासु एका। नैकाः उत्पातिकाः एवं च विशाला ज्वालामुखी-गतिविधिः।
- यथा दक्षिणापठोद्भेदने अन्विष्टाः। तासां निर्माण समयः विलुप्तेः समयेन प्रायः समानः।
- आभिः भूगर्भीयाभिः घटनाभिः सूर्यप्रकाशः न्यूनीकृतः स्यात् येन प्रकाश-संश्लेषण-निवारणं जायते। अस्मात् निवारणात् भूपारिस्थितिक-सङ्क्षोभः अभवत् स्यात्।
Comments
Post a Comment